|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.33. अध्यायः 033
Mahabharata - Drona Parva - Chapter Topics
युधिष्ठिरस्याग्रहणात् दुर्मनायमानं दुर्योधनं प्रति द्रोणेन कस्यचिन्महारथस्य हननप्रतिज्ञा॥ 1 ॥ सञ्जयेन धृतराष्ट्रं प्रति सङ्क्षेपतोऽभिमन्युवधकथनम्॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-33-0x(4332)(46208)
पूर्वमस्मासु भग्नेषु फल्गुगेनामितौजसा।
द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे॥ 7-33-1(46209)
सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः।
रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश॥ 7-33-2(46210)
अवहारं ततः कृत्वा भारद्वाजस्य सम्मते।
लब्धलक्षैः शरैर्भिन्ना भृशावहसिता रणे॥ 7-33-3(46211)
श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान्।
केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति॥ 7-33-4(46212)
अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः।
ततः प्रभातसमये द्रोणं द्रुयोधनोऽब्रवीत्॥ 7-33-5(46213)
प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः।
शृण्वतां सर्वयोधानां संरब्धो वाक्यकोविदः॥ 7-33-6(46214)
नूनं वयं वध्यपक्षे भवतो द्विजसत्तम।
तथाहि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम्॥ 7-33-7(46215)
इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः।
जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः॥ 7-33-8(46216)
वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि।
आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन॥ 7-33-9(46217)
सञ्जय उवाच। 7-33-10x(4333)
ततोऽप्रीतस्तथोक्तः सन्भारद्वाजोऽब्रवीन्नृपम्।
नार्हसे मां तथा ज्ञातुं घटमानं तव प्रिये॥ 7-33-10(46218)
ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः।
नालं लोका रणे जेतुं पाल्यमानं किरीटिना॥ 7-33-11(46219)
विश्वसृग्यत्र गोविन्दः पृतनानीस्तथाऽर्जुनः।
तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः॥ 7-33-12(46220)
सत्यं तात ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत्।
अद्यैकं प्रवरं कञ्चित्पातयिष्ये महारथम्॥ 7-33-13(46221)
चक्रब्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि।
योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम्॥ 7-33-14(46222)
न ह्यज्ञातमसाध्यं वा तस्य सङ्ख्येऽस्ति किञ्चन।
तेन ह्युपात्तं सकलं सर्वज्ञानमितस्ततः॥ 7-33-15(46223)
द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः।
आह्वयन्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम्॥ 7-33-16(46224)
ततोऽर्जुनस्याथ परैः सार्धं समभवद्रणः।
तादृशो यादृशो नान्यः श्रुतो दृष्टोपि वा क्वचित्। 7-33-17(46225)
तत्र द्रोणेन विहितो व्यूहो राजन्व्यरोचत।
चरन्मध्यन्दिने सूर्यः प्रतपन्निव दुर्दृशः॥ 7-33-18(46226)
तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत।
बिभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमनेकधा॥ 7-33-19(46227)
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः।
राजपुत्रशतं हत्वा कौसल्यं च बृहद्बलम्॥ 7-33-20(46228)
महारथं शल्यपुत्रं पौत्रं ते लक्ष्मणं तथा।
षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः।
सौभद्रः पृथिवीपाल जहौ प्राणान्परन्तप॥ 7-33-21(46229)
वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः।
सौभद्रे निहते राजन्नवहारमकुर्महि॥ 7-33-22(46230)
`जनमेजय उवाच। 7-33-23x(4334)
समरोद्युक्तकर्माणः कर्मभिर्व्यञ्जितश्रमाः।
सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः॥ 7-33-23(46231)
शश्वत्कर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया।
न भूतो भविता वापि कृष्णस्य सदृशः पुमान्॥ 7-33-24(46232)
सत्यधर्मतपोदानैर्द्विजपूजादिभिर्गुणैः।
सदेहस्त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः॥ 7-33-25(46233)
युगान्ते चान्तकश्चैव जामदग्न्यश्च कीर्तिमान्।
रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः॥ 7-33-26(46234)
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः।
उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ॥ 7-33-27(46235)
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः।
नकुले त्वाभिरूप्यं च शौर्यं च नियतानि षट्॥ 7-33-28(46236)
श्रुतमाधुर्यगाम्भीर्यसत्त्वरूपपराक्रमैः।
सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः॥ 7-33-29(46237)
ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः।
अभिमन्यौ किलैकस्था दृश्यन्ते ते गुणाः शुभाः॥ 7-33-30(46238)
युधिष्ठिरस्य शौर्येण कृष्णस्य चरितेन च।
कर्मणा भीमसेनस्य सदृशं भीमकर्मणः॥ 7-33-31(46239)
धनञ्जयस्य रूपेण विक्रमेण शुभेन च।
विनये सहदेवस्य सदृशं नकुलस्य च॥ 7-33-32(46240)
अभिमन्युं द्विजश्रेष्ठ सौभद्रमपराजितम्।
श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः॥ 7-33-33(46241)
वैशम्पायन उवाच। 7-33-34x(4335)
अभिमन्युं हतं श्रुत्वा धृतराष्ट्रो जनाधिपः।
विस्तरेण महाराज पर्यपृच्छत्स सञ्जयम्'॥ 7-33-34(46242)
धृतराष्ट्र उवाच। 7-33-35x(4336)
पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम्।
रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः॥ 7-33-35(46243)
दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः।
यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन्॥ 7-33-36(46244)
बालमत्यन्तसुखिनं विचरन्तमभीतवत्।
कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम्॥ 7-33-37(46245)
बिबित्सता रथानीकं सौभद्रेणामितौजसा।
विक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय॥ 7-33-38(46246)
सञ्जय उवाच। 7-33-39x(4337)
यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम्।
तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः॥ 7-33-39(46247)
विक्रीडितं कुमारेण यथानीकं बिभित्सता।
आरुग्णाश्च यथा वीरा दुःसाध्याश्चापि विप्लुवे॥ 7-33-40(46248)
दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे।
वनौकसामिवारण्ये त्वदीयानामभूद्भयम्॥ ॥ 7-33-41(46249)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयस्त्रिंशोऽध्यायः॥ 33 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-33-2 रजस्वला धूलिव्याप्ताः॥ 5-33-9 विकृतवानन्यथा कृतवान्॥ 5-33-15 कलाभिः सहितं सकलम्। इतोऽस्मत्तः। ततोऽन्यतः॥ 5-33-21 षट्सु द्रोणद्रौणिकृपकर्णभोजशल्येषु॥ 5-33-28 नैभृत्यं कृतकर्तव्याप्रकाशनम्॥ 5-33-36 धर्मकर्तृभिर्मन्वादिभिः॥ 5-33-33 त्रयस्त्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|